Shri Hanumat Stavan Sanskrit

प्रनवउँ पवन कुमार खेल बन पावक ज्ञान घन I
जासु हृदय आगार बसहिं राम सर चाप धर II

अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् I
सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि  II

गोष्पदीकृतवारीशं मशकीकृतराक्षसम् I
रामायणमहामालारत्नं बन्देनिलात्मजम् II

अंजनानन्दनम् वीरम् जानकीशोकनाशनम् I
कपीशमक्षहन्तारम् बन्दे लङ्काभयंकरम् II

उल्लङ्घ्य सिन्धोः सलिलं सलीलम् यः शोकवह्निं जनकात्मजायाः I
आदाय तेनैव ददाह लंका नमामि तं प्रांजलिरांजनेयम् II

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं  I
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये  II

आंजनेयमतिपाटलाननं कांचनाद्रिकमनीयविग्रहम्  I
पारिजाततरुमूलवासिनम भावयामि पवमाननन्दनम्  II

यत्र यत्र रगुनाथ कीर्तनं तत्र तत्र कृतमस्तकाञ्जिलाम  I
वाष्पवारिपरिपूर्णलोचनम् मारुतिं नमत राक्षसान्तकम् II