Shri Lakshminarayana Vandana Sanskrit

सखेतिमत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति I
अजानता महिमानं तवेदम् मया प्रमादात् प्रणयेनवापि II

त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव I 
त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव II

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं I
विश्वाधारं गगन सदृशं मेघवर्णं शुभांगम  II

लक्ष्मीकान्तं कमलनयनं योगभिर्ध्यान गम्यं I 
वन्दे विष्णुं भवभय हरं सर्वलोकैकनाथम II

अच्युतं केशवं रामनारायणं कृष्ण दमोदरम् वासुदेवं हरिं I 
श्रीधरं माधवं गोपिका वल्लभं जानकी नायकं रामचंद्रम् भजे II