Shri Rama Vandana Sanskrit
आपदामपहरत्ताराम दातारं सर्वसम्पदाम् I
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यमहम् II
रामाय रामभद्राय रामचन्द्राय मानसे I
रघुनाथाय नाथाय सीतायाः पतये नमः II
नीलाम्बुजश्यामलकोमलाङ्गं सीतसमारोपतिवामभागम I
पाणौ महासायक चारु चापं नमामि रामं रगुवंशनाथम् II
भवाब्धिपोतं भारताग्रजंतं भक्तप्रियं भानुकुल प्रदीपम् I
भूतादिनाथं भुवनाधिपत्यम् भजामि रामं भवरोग वैद्यम् II
लोकाभिरामं रणरंगधीरम् राजीवनेत्रं रघुवंशनाथम I
कारुण्यरूपं करुणाकरं तं श्री रामचंद्रम् शरणं प्रपद्ये II